Tuesday, January 19, 2021

बिल्वाष्टकम



त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधं |
त्रिजन्म पापसंहारं एकबिल्वं शिवार्पितं || 1 ||

त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः |
तवपूजां करिष्यामि एकबिल्वं शिवार्पितं || 2 ||

दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनं |
अघ्रपापसंहारं एकबिल्वं शिवार्पितं || 3 ||

सालग्रामेषु विप्रेषु तटाके वनकूपयोः |
यज्ञ्नकोटि सहस्राणां एकबिल्वं शिवार्पितं || 4 ||

दन्तिकोटि सहस्रेषु अश्वमेध शतानि च |
कोटिकन्याप्रदानेन एकबिल्वं शिवार्पितं || 5 ||

एकं च बिल्वपत्रैश्च कोटियज्ञ्न फलं लभेत् |
महादेवैश्च पूजार्थं एकबिल्वं शिवार्पितं || 6 ||

काशीक्षेत्रे निवासं च कालभैरव दर्शनं |
गयाप्रयाग मे दृष्ट्वा एकबिल्वं शिवार्पितं || 7 ||

उमया सह देवेशं वाहनं नन्दिशङ्करं |
मुच्यते सर्वपापेभ्यो एकबिल्वं शिवार्पितं || 8 ||

इति श्री बिल्वाष्टकम् || 

चलो चले ज्योतिष की ओर ॥ ॥ अन्धविश्वास से विश्वास की ओर ॥

No comments:

Post a Comment

Featured Post

।। ज्ञानगंगा ज्योतिष केंद्र ।।

।। ज्ञानगंगा ज्योतिष केंद्र ।।                                          ।। विश्वाश्मेव फलदायके ।।  ज्ञानगंगा ज्योतिष केंद्र  आपक...